________________
1
* श्रीगणेशायनमः*
स्कन्द पुराणस्थकाशीखण्डम्
उत्तरार्द्ध म्
एकपञ्चाशत्तमोऽध्यायः
अरुणवृद्धकेशव विमलगङ्गादित्यानाम्वर्णनम्
अगस्तिरुवाच
पार्वतीहृदयानन्द सर्वशाङ्गभवप्रभो ! किञ्चित्प्रष्टुमनाःस्वामिंस्तद्भवान्वक्तुमर्हति दक्षप्रजापतेः पुत्री कश्यपस्य परिग्रहः । गरुत्मतः प्रसूः साध्वीकुतोदास्यमवापसा
स्कन्द उवाच
हञ्जिका त्वं यथाप्राप्ताविनता सा तपस्विनी । तदप्यहंसमाख्यामिनिशामयमहामते कद्दूरजीजनत्पुत्राञ्छतं कश्यपतः पुरा । उलूक मरुणन्तार्क्ष्यमसृत विनता त्रयम् ॥ कौशिको राज्यमाप्याऽपि श्रेष्ठत्वात्पक्षिणाम्मुने ! |
निर्गुणत्वाच्च तैः सर्वैः स राज्यादवरोपितः ॥ ५
क्रूराक्षोऽयंदिवान्धोऽयं सदावक्रनखस्त्वसौ । अतीवोद्वेगजनकं सर्वेषामस्यभाषणम् इत्थं तस्यगुणग्रामान्विकथ्य बहुशः खगाः । नाद्यापिवृण्वतेराज्येकमपिस्वैरचारिणः कौशिकेऽथ तथा वृत्तेपुत्त्रवीक्षणलालसा । अण्डम्प्रस्फोटयामासमध्यमं चिनतातदा